आत्मनो वास्तविकायाश्च स्वरूपविषयकाः दार्शनिकाः ग्रन्थाः।
गणपत्यथर्वशीर्षम् नाम उपनिषद्ग्रन्थः। अत्र गणपतेः स्वरूपं, मन्त्राः, गायत्री, ध्यानं, फलश्रुतिश्च वर्णिताः।
शुक्लयजुर्वेदसंहितायाः चत्वारिंशत्तमोऽध्यायः ईशावास्योपनिषदिति प्रसिद्धः। अत्र 'ईशा वास्यमिदꣳ सर्वम्' इति उद्घोषेण सर्वत्र ईश्वरीया सत्ता प्रबोध्यते। कर्मज्ञानयोः सामञ्जस्यं प्रतिष्ठाप्य इयमुपनिषद् 'सोऽहमस्मि' इति परमतत्त्वं प्रकाशयति।
अथर्ववेदान्तर्गता इयं माण्डूक्योपनिषत् द्वादशमन्त्रात्मिका अतीव संक्षिप्ता अपि वेदान्तदर्शनस्य हृदयभूता। अत्र 'ओमित्येतदक्षरमिदꣳ सर्वम्' इति प्रतिपाद्य जाग्रत्-स्वप्न-सुषुप्ति-तुरीयाख्यानां चतुर्णां पादानाम् अ-उ-म-अमात्राणां च ऐक्यं विविच्यते।