Bharat Devotion
Embroidered artwork for श्री शिव सहस्रनाम स्तोत्रम्: Embroidered Om symbol above a brass diya, marigolds and a temple spire at sunrise

श्री शिव सहस्रनाम स्तोत्रम्

महाभारत के अनुशासन पर्व में शिव के एक सहस्र नामों का स्तोत्र, जिसे उपमन्यु ने श्रीकृष्ण को सुनाया और श्रीकृष्ण ने युधिष्ठिर को।

श्लोक

स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः

श्लोक 1

जटी चर्मी शिखी खड्गी सर्वाङ्गः सर्वभावनः हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः

श्लोक 2

प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः श्मशानवासी भगवान्खचरो गोचरोऽर्दनः

श्लोक 3

अभिवाद्यो महाकर्मा तपस्वी भूतभावनः उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः

श्लोक 4

महारूपो महाकायो वृषरूपो महायशाः महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः

श्लोक 5

लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः पवित्रं च महांश्चैव नियमो नियमाश्रितः

श्लोक 6

सर्वकर्मा स्वयम्भूत आदिरादिकरो निधिः सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः

श्लोक 7

चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः अत्रिरत्र्यानमस्कर्ता मृगबाणार्पणोऽनघः

श्लोक 8

महातपा घोरतपा अदीनो दीनसाधकः संवत्सरकरो मन्त्रः प्रमाणं परमं तपः

श्लोक 9

योगी योज्यो महाबीजो महारेता महाबलः सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः

श्लोक 10

दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः विश्वरूपः स्वयंश्रेष्ठो बलवीरो बलो गणः

श्लोक 11

गणकर्ता गणपतिर्दिग्वासाः काम एव च मन्त्रवित्परमो मन्त्रः सर्वभावकरो हरः

श्लोक 12

कमण्डलुधरो धन्वी बाणहस्तः कपालवान् अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान्

श्लोक 13

स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा

श्लोक 14

दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च श‍ृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः

श्लोक 15

अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभःस्थलः

श्लोक 16

त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः अहश्चरो नक्तञ्चरस्तिग्ममन्युः सुवर्चसः

श्लोक 17

गजहा दैत्यहा कालो लोकधाता गुणाकरः सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः

श्लोक 18

कालयोगी महानादः सर्वकामश्चतुष्पथः निशाचरः प्रेतचारी भूतचारी महेश्वरः

श्लोक 19

बहुभूतो बहुधरः स्वर्भानुरमितो गतिः नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः

श्लोक 20

घोरो महातपाः पाशो नित्यो गिरिरुहो नभः सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः

श्लोक 21

अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः दक्षयागापहारी च सुसहो मध्यमस्तथा

श्लोक 22

तेजोपहारी बलहा मुदितोऽर्थोऽजितोऽवरः गम्भीरघोषा गम्भीरो गम्भीरबलवाहनः

श्लोक 23

न्यग्रोधरूपो न्यग्रोधो वृक्षपर्णस्थितिर्विभुः सुतीक्ष्णदशनश्चैव महाकायो महाननः

श्लोक 24

विष्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित्

श्लोक 25

विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः हुताशनसहायश्च प्रशान्तात्मा हुताशनः

श्लोक 26

उग्रतेजा महातेजा जन्यो विजयकालवित् ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च

श्लोक 27

शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली वेणवी पणवी ताली खली कालकटङ्कटः

श्लोक 28

नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयो गमः प्रजापतिर्विश्वबाहुर्विभागः सर्वगोमुखः

श्लोक 29

विमोचनः सुसरणो हिरण्यकवचोद्भवः मेढ्रजो बलचारी च महीचारी स्रुतस्तथा

श्लोक 30

सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रहः व्यालरूपो गुहावासी गुहो माली तरङ्गवित्

श्लोक 31

त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः

श्लोक 32

साङ्ख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः प्रस्कन्दनो विभागज्ञो अतुल्यो यज्ञभागवित्

श्लोक 33

सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः हैमो हेमकरो यज्ञः सर्वधारी धरोत्तमः

श्लोक 34

लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः

श्लोक 35

मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः सर्वकासप्रसादश्च सुबलो बलरूपधृत्

श्लोक 36

सर्वकामवरश्चैव सर्वदः सर्वतोमुखः आकाशनिर्विरूपश्च निपाती ह्यवशः खगः

श्लोक 37

रौद्ररूपोंऽशुरादित्यो बहुरश्मिः सुवर्चसी वसुवेगो महावेगो मनोवेगो निशाचरः

श्लोक 38

सर्ववासी श्रियावासी उपदेशकरोऽकरः मुनिरात्मनिरालोकः सम्भग्नश्च सहस्रदः

श्लोक 39

पक्षी च पक्षरूपश्च अतिदीप्तो विशाम्पतिः उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः

श्लोक 40

वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः

श्लोक 41

भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः महासेनो विशाखश्च षष्टिभागो गवाम्पतिः

श्लोक 42

वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः

श्लोक 43

वाचस्पत्यो वाजसनो नित्यमाश्रमपूजितः ब्रह्मचारी लोकचारी सर्वचारी विचारवित्

श्लोक 44

ईशान ईश्वरः कालो निशाचारी पिनाकवान् निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः

श्लोक 45

नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः भगहारी निहन्ता च कालो ब्रह्मा पितामहः

श्लोक 46

चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः

श्लोक 47

बीजाध्यक्षो बीजकर्ता अव्यात्माऽनुगतो बलः इतिहासः सकल्पश्च गौतमोऽथ निशाकरः

श्लोक 48

दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः

श्लोक 49

अक्षरं परमं ब्रह्म बलवच्छक्र एव च नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः

श्लोक 50

बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित् वेदकारो मन्त्रकारो विद्वान्समरमर्दनः

श्लोक 51

महामेघनिवासी च महाघोरो वशीकरः अग्निर्ज्वालो महाज्वालो अतिधूम्रो हुतो हविः

श्लोक 52

वृषणः शङ्करो नित्यं वर्चस्वी धूमकेतनः नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः

श्लोक 53

स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः

श्लोक 54

कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम् महापादो महाहस्तो महाकायो महायशाः

श्लोक 55

महामूर्धा महामात्रो महानेत्रो निशालयः महान्तको महाकर्णो महोष्ठश्च महाहनुः

श्लोक 56

महानासो महाकम्बुर्महाग्रीवः श्मशानभाक् महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः

श्लोक 57

लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः महादन्तो महादंष्ट्रो महाजिह्वो महामुखः

श्लोक 58

महानखो महारोमा महाकेशो महाजटः प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः

श्लोक 59

स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः

श्लोक 60

गण्डली मेरुधामा च देवाधिपतिरेव च अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः

श्लोक 61

यजुःपादभुजो गुह्यः प्रकाशो जङ्गमस्तथा अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः

श्लोक 62

उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः नाभिर्नन्दिकरो भावः पुष्करस्थपतिः स्थिरः

श्लोक 63

द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः नक्तं कलिश्च कालश्च मकरः कालपूजितः

श्लोक 64

सगणो गणकारश्च भूतवाहनसारथिः भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः

श्लोक 65

लोकपालस्तथा लोको महात्मा सर्वपूजितः शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः

श्लोक 66

आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः

श्लोक 67

कपिलः कपिशः शुक्ल आयुश्चैवि परोऽपरः गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः

श्लोक 68

परश्वधायुधो देव अनुकारी सुबान्धवः तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः

श्लोक 69

उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः

श्लोक 70

बन्धनो बन्धकर्ता च सुबन्धनविमोचनः स यज्ञारिः स कामारिर्महादंष्ट्रो महायुधः

श्लोक 71

बहुधानिन्दितः शर्वः शङ्करः शङ्करोऽधनः अमरेशो महादेवो विश्वदेवः सुरारिहा

श्लोक 72

अहिर्बुध्न्योऽनिलाभश्च चेकितानो हविस्तथा अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः

श्लोक 73

धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः

श्लोक 74

प्रभावः सर्वगो वायुरर्यमा सविता रविः उषङ्गुश्च विधाता च मान्धाता भूतभावनः

श्लोक 75

विभुर्वर्णविभावी च सर्वकामगुणावहः पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः

श्लोक 76

बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः

श्लोक 77

सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः देवदेवः सुखासक्तः सदसत्सर्वरत्नवित्

श्लोक 78

कैलासगिरिवासी च हिमवद्गिरिसंश्रयः कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः

श्लोक 79

वणिजो वर्धकी वृक्षो बकुलश्चन्दनश्छदः सारग्रीवो महाजत्रुरलोलश्च महौषधः

श्लोक 80

सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः

श्लोक 81

प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः सारङ्गो नवचक्राङ्गः केतुमाली सभावनः

श्लोक 82

भूतालयो भूतपतिरहोरात्रमनिन्दितः

श्लोक 83

वाहिता सर्वभूतानां निलयश्च विभुर्भवः अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः

श्लोक 84

हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः

श्लोक 85

गान्धारश्च सुवासश्च तपःसक्तो रतिर्नरः महागीतो महानृत्यो ह्यप्सरोगणसेवितः

श्लोक 86

महाकेतुर्महाधातुर्नैकसानुचरश्चलः आवेदनीय आदेशः सर्वगन्धसुखावहः

श्लोक 87

तोरणस्तारणो वातः परिधी पतिखेचरः संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः

श्लोक 88

नित्य आत्मसहायश्च देवासुरपतिः पतिः युक्तश्च युक्तबाहुश्च देवो दिवि सुपर्वणः

श्लोक 89

आषाढश्च सुषाण्ढश्च ध्रुवोऽथ हरिणो हरः वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः

श्लोक 90

शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः अक्षश्च रथयोगी च सर्वयोगी महाबलः

श्लोक 91

समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः

श्लोक 92

रत्नप्रभूतो रत्नाङ्गो महार्णवनिपानवित् मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः

श्लोक 93

आरोहणोऽधिरोहश्च शीलधारी महायशाः सेनाकल्पो महाकल्पो योगो युगकरो हरिः

श्लोक 94

युगरूपो महारूपो महानागहनो वधः न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः

श्लोक 95

बहुमालो महामालः शशी हरसुलोचनः विस्तारो लवणः कूपस्त्रियुगः सफलोदयः

श्लोक 96

त्रिलोचनो विषण्णाङ्गो मणिविद्धो जटाधरः बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः

श्लोक 97

निवेदनः सुखाजातः सुगन्धारो महाधनुः गन्धपाली च भगवानुत्थानः सर्वकर्मणाम्

श्लोक 98

मन्थानो बहुलो वायुः सकलः सर्वलोचनः तलस्तालः करस्थाली ऊर्ध्वसंहननो महान्

श्लोक 99

हर्यक्षः ककुभो वज्रो शतजिह्वः सहस्रपात् सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः

श्लोक 100

ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः

श्लोक 101

गभस्तिर्ब्रह्मकृद्ब्रह्मी ब्रह्मविद्ब्राह्मणो गतिः अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः

श्लोक 102

ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः

श्लोक 103

कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृत् उमापतिरुमाकान्तो जाह्नवीधृगुमाधवः

श्लोक 104

वरो वराहो वरदो वरेण्यः सुमहास्वनः महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः

श्लोक 105

पीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः

श्लोक 106

व्यासः सर्गः सुसङ्क्षेपो विस्तरः पर्ययो नरः ऋतु संवत्सरो मासः पक्षः सङ्ख्यासमापनः

श्लोक 107

कला काष्ठा लवा मात्रा मुहूर्ताहःक्षपाः क्षणाः विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्तु निर्गमः

श्लोक 108

सदसद्व्यक्तमव्यक्तं पिता माता पितामहः स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्

श्लोक 109

निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परा गतिः देवासुरविनिर्माता देवासुरपरायणः

श्लोक 110

देवासुरगुरुर्देवो देवासुरनमस्कृतः देवासुरमहामात्रो देवासुरगणाश्रयः

श्लोक 111

देवासुरगणाध्यक्षो देवासुरगणाग्रणीः देवातिदेवो देवर्षिर्देवासुरवरप्रदः

श्लोक 112

देवासुरेश्वरो विश्वो देवासुरमहेश्वरः सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः

श्लोक 113

ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः

श्लोक 114

विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः सुयुक्तः शोभनो वज्री प्रासानां प्रभवोऽव्ययः

श्लोक 115

गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः श‍ृङ्गी श‍ृङ्गप्रियो बभ्रू राजराजो निरामयः

श्लोक 116

अभिरामः सुरगणो विरामः सर्वसाधनः ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः

श्लोक 117

स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः

श्लोक 118

व्रताधिपः परं ब्रह्म भक्तानां परमा गतिः विमुक्तो मुक्ततेजाश्च श्रीमान्श्रीवर्धनो जगत्

श्लोक 119

पूजन विधि एवं फलश्रुति (महत्व व लाभ)

फलश्रुति
शुभ दिन व तिथि

सोमवार एवं प्रदोष काल

उत्तम मुहूर्त / समय

प्रातःकाल (ब्रह्म मुहूर्त) अथवा संध्याकालीन प्रदोष वेला

पूजन सामग्री व अर्पण

बिल्वपत्र, गंगाजल, भस्म, धतूरा एवं श्वेत पुष्प

फलश्रुति एवं आध्यात्मिक लाभफलश्रुति
  • आत्मिक शांति, समस्त पापों का नाश एवं अकाल मृत्यु के भय से मुक्ति

पृष्ठभूमि

स्तोत्र की पृष्ठभूमि: महाभारत के अनुशासन पर्व में धर्मराज युधिष्ठिर ने श्रीकृष्ण से महादेव (रुद्र) की महिमा और नामों के विषय में पूछा। यह स्तोत्र गांगुली/रॉय विभाजन में अनुशासन पर्व का १७वाँ खण्ड है; यहाँ प्रयुक्त संस्कृत डॉक्यूमेंट्स के पाठ (श्लोक ३१–१५३) की पुष्पिका में इसे दानधर्मपर्व का ४८वाँ अध्याय कहा गया है। श्रीकृष्ण ने बताया कि पुत्र-प्राप्ति के लिए हिमालय में तप करते समय वे महर्षि उपमन्यु के आश्रम में गए थे, जहाँ उपमन्यु ने उन्हें ये नाम सुनाए; उपमन्यु इन्हें १,००८ नाम कहते हैं। उनके अनुसार ये ब्रह्मा द्वारा कहे गए दस हज़ार नामों का सार हैं; यह स्तव ब्रह्मलोक से देवलोक पहुँचा, महर्षि ताण्डि ने इसे पाया और पृथ्वी पर उतारा, इसलिए इसे ताण्डिकृत स्तव भी कहते हैं। श्रीकृष्ण ने यही सहस्रनाम युधिष्ठिर को सुनाया, यह कहते हुए कि शिव सबके हृदय में स्थित परमात्मा और शरणागत के करुणामय उद्धारक हैं।

इस पाठ के विषय में

रचयिता: Maharishi Vedavyasa · प्राचीन वैदिक ऋषि · पौराणिक प्राचीन काल

परंपरागत रूप से चारों वेदों के संकलनकर्ता तथा महाभारत (जिसके अंतर्गत भगवद्गीता आती है) एवं पुराणों के रचयिता माने जाते हैं — जिससे वे संपूर्ण हिंदू ग्रंथ-परंपरा में सर्वाधिक उद्धृत रचनाकारों में से एक हैं, जो दर्शन, महाकाव्य कथा, एवं भक्ति साहित्य तक विस्तृत है।

क्या आप जानते हैं?

स्वयं श्रीकृष्ण द्वारा उद्घोषणा

महाभारत में स्वयं भगवान श्रीकृष्ण ने इस स्तोत्र का पाठ कर महादेव शिव की स्तुति की, जो 'हरि' और 'हर' के परस्पर अभिन्न अद्वैत स्वरूप का सर्वोत्तम प्रमाण है।

ऋषि ताण्डि की परम्परा

उपमन्यु के अनुसार यह स्तव ब्रह्मलोक से देवलोक पहुँचा और महर्षि ताण्डि ने इसे पाकर पृथ्वी पर उतारा, इसीलिए इसे ताण्डिकृत स्तव भी कहते हैं। ये नाम ब्रह्मा द्वारा कहे गए दस हज़ार नामों का सार हैं।

'स्थिर' और 'स्थाणु' का आध्यात्मिक मर्म

स्तोत्र का प्रारंभ 'स्थिरः स्थाणुः प्रभुर्भीमः' से होता है, जो यह स्पष्ट करता है कि शिव केवल संहारक नहीं, अपितु सम्पूर्ण चराचर जगत के अविचल आधार-स्तम्भ हैं।

प्रवृत्ति और निवृत्ति का समन्वय

स्तोत्र में शिव को 'प्रवृत्ति' (सृष्टि-प्रसार) और 'निवृत्ति' (मोक्ष-मार्ग) दोनों का अधिपति बताया गया है, जो कर्म और संन्यास के पूर्ण संतुलन को दर्शाता है।

अनुशासन पर्व का युगल रत्न

विष्णु सहस्रनाम के साथ-साथ यह शिव सहस्रनाम महाभारत के अनुशासन पर्व का अमूल्य आध्यात्मिक धरोहर है।

विषय के अनुसार खोजें

Shiva की संपूर्ण स्तुति एवं पाठ

Shiva

Shiva के सभी पाठ देखें →

हिन्दू धर्म से और

सभी देखें