Bharat Devotion
Embroidered artwork for श्री विष्णु सहस्रनाम स्तोत्रम्: Embroidered Om symbol above a brass diya, marigolds and a temple spire at sunrise

श्री विष्णु सहस्रनाम स्तोत्रम्

महाभारत, अनुशासन पर्व (अध्याय १४९) में भीष्म द्वारा युधिष्ठिर को उपदिष्ट विष्णु के सहस्र नाम, १०८ श्लोकों में।

श्लोक

विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः

श्लोक 1

पूतात्मा परमात्मा च मुक्तानां परमा गतिः अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च

श्लोक 2

योगो योगविदां नेता प्रधानपुरुषेश्वरः नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः

श्लोक 3

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः

श्लोक 4

स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः अनादिनिधनो धाता विधाता धातुरुत्तमः

श्लोक 5

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः

श्लोक 6

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम्

श्लोक 7

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः

श्लोक 8

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्

श्लोक 9

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः

श्लोक 10

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः

श्लोक 11

वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः

श्लोक 12

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः

श्लोक 13

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः

श्लोक 14

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः

श्लोक 15

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः अनघो विजयो जेता विश्वयोनिः पुनर्वसुः

श्लोक 16

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः

श्लोक 17

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः अतीन्द्रियो महामायो महोत्साहो महाबलः

श्लोक 18

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक्

श्लोक 19

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः

श्लोक 20

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः

श्लोक 21

अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा

श्लोक 22

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः

श्लोक 23

अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात्

श्लोक 24

आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः अहः संवर्तको वह्निरनिलो धरणीधरः

श्लोक 25

सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः

श्लोक 26

असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः

श्लोक 27

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः

श्लोक 28

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः

श्लोक 29

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः

श्लोक 30

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः औषधं जगतः सेतुः सत्यधर्मपराक्रमः

श्लोक 31

भूतभव्यभवन्नाथः पवनः पावनोऽनलः कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः

श्लोक 32

युगादिकृद्युगावर्तो नैकमायो महाशनः अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित्

श्लोक 33

इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः

श्लोक 34

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः

श्लोक 35

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः

श्लोक 36

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः

श्लोक 37

पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः

श्लोक 38

अतुलः शरभो भीमः समयज्ञो हविर्हरिः सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः

श्लोक 39

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः महीधरो महाभागो वेगवानमिताशनः

श्लोक 40

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः करणं कारणं कर्ता विकर्ता गहनो गुहः

श्लोक 41

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः

श्लोक 42

रामो विरामो विरजो मार्गो नेयो नयोऽनयः (विरामो विरतो) वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः

श्लोक 43

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः

श्लोक 44

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः

श्लोक 45

विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् अर्थोऽनर्थो महाकोशो महाभोगो महाधनः

श्लोक 46

अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः

श्लोक 47

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम्

श्लोक 48

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् मनोहरो जितक्रोधो वीरबाहुर्विदारणः

श्लोक 49

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः

श्लोक 50

धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः

श्लोक 51

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः आदिदेवो महादेवो देवेशो देवभृद्गुरुः

श्लोक 52

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः

श्लोक 53

सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः विनयो जयः सत्यसन्धो दाशार्हः सात्वताम्पतिः

श्लोक 54

विनियोज्यः जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः

श्लोक 55

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः

श्लोक 56

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः त्रिपदस्त्रिदशाध्यक्षो महाश‍ृङ्गः कृतान्तकृत्

श्लोक 57

महावराहो गोविन्दः सुषेणः कनकाङ्गदी गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः

श्लोक 58

वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः

श्लोक 59

भगवान् भगहाऽऽनन्दी वनमाली हलायुधः आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः

श्लोक 60

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः दिवस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः

श्लोक 61

(दिविस्पृक्) त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम्

श्लोक 62

शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः

श्लोक 63

अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः

श्लोक 64

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः

श्लोक 65

स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः

श्लोक 66

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः भूशयो भूषणो भूतिर्विशोकः शोकनाशनः

श्लोक 67

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः

श्लोक 68

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः

श्लोक 69

कामदेवः कामपालः कामी कान्तः कृतागमः अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः

श्लोक 70

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः

श्लोक 71

महाक्रमो महाकर्मा महातेजा महोरगः महाक्रतुर्महायज्वा महायज्ञो महाहविः

श्लोक 72

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः

श्लोक 73

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः वसुप्रदो वासुदेवो वसुर्वसुमना हविः

श्लोक 74

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः

श्लोक 75

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः

श्लोक 76

विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः

श्लोक 77

एको नैकः सवः कः किं यत् तत्पदमनुत्तमम् लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः

श्लोक 78

सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी वीरहा विषमः शून्यो घृताशीरचलश्चलः

श्लोक 79

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् सुमेधा मेधजो धन्यः सत्यमेधा धराधरः

श्लोक 80

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः प्रग्रहो निग्रहो व्यग्रो नैकश‍ृङ्गो गदाग्रजः

श्लोक 81

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात्

श्लोक 82

समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा

श्लोक 83

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः

श्लोक 84

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः अर्को वाजसनः श‍ृङ्गी जयन्तः सर्वविज्जयी

श्लोक 85

सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः महाह्रदो महागर्तो महाभूतो महानिधिः

श्लोक 86

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः

श्लोक 87

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः

श्लोक 88

सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः

श्लोक 89

अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः

श्लोक 90

भारभृत् कथितो योगी योगीशः सर्वकामदः आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः

श्लोक 91

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः

श्लोक 92

सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः

श्लोक 93

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः रविर्विरोचनः सूर्यः सविता रविलोचनः

श्लोक 94

अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः

श्लोक 95

सनात्सनातनतमः कपिलः कपिरव्ययः स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः

श्लोक 96

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः

श्लोक 97

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः

श्लोक 98

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः

श्लोक 99

अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः

श्लोक 100

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः जननो जनजन्मादिर्भीमो भीमपराक्रमः

श्लोक 101

आधारनिलयोऽधाता पुष्पहासः प्रजागरः ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः

श्लोक 102

प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः

श्लोक 103

भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः

श्लोक 104

यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च

श्लोक 105

आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः

श्लोक 106

शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः

श्लोक 107

सर्वप्रहरणायुध ॐ नम इति वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु

श्लोक 108

पूजन विधि एवं फलश्रुति (महत्व व लाभ)

फलश्रुति
शुभ दिन व तिथि

नित्य प्रतिदिन अथवा शुभ तिथियों (एकादशी, पूर्णिमा, प्रदोष) पर

उत्तम मुहूर्त / समय

ब्रह्म मुहूर्त (प्रातः 4 से 6 बजे) अथवा संध्या काल

पूजन सामग्री व अर्पण

शुद्ध घी का दीपक, धूप, ताजे पुष्प एवं नैवेद्य/जल

फलश्रुति एवं आध्यात्मिक लाभफलश्रुति
  • मानसिक शांति, आत्मिक उन्नति एवं घर में सकारात्मक ऊर्जा का संचार

पृष्ठभूमि

स्तोत्र की पृष्ठभूमि: कुरुक्षेत्र के महायुद्ध के पश्चात धर्मराज युधिष्ठिर स्वजनों के संहार से अत्यंत व्यथित होकर शरशय्या पर स्थित पितामह भीष्म के समीप गए। उन्होंने भीष्म जी से ६ गूढ़ प्रश्न पूछे: संसार का एकमात्र देव कौन है? परम गति क्या है? किसकी स्तुति करने से मानव का कल्याण होता है? किसका ध्यान करने से जीव जन्म-मरण से मुक्त होता है? समस्त धर्मों में सर्वश्रेष्ठ धर्म कौन सा है? तथा किसका जप करने से संसार-बंधन कट जाते हैं? पितामह भीष्म ने उत्तर दिया कि सर्वव्यापी, कमलनयन भगवान श्रीविष्णु के दिव्य एक सहस्र नामों का अनन्य भक्ति से संकीर्तन ही सर्वश्रेष्ठ धर्म और मोक्ष का परम साधन है। स्थान-निर्देश: महाभारत, अनुशासन पर्व, अध्याय १४९; स्तोत्रनिधि के पाठ की पुष्पिका इसे भीष्म-युधिष्ठिर संवाद में अनुशासन पर्व का १४९वाँ अध्याय बताती है। यहाँ दिए १०८ श्लोकों में सहस्र नाम समाए हैं।

इस पाठ के विषय में

रचयिता: Maharishi Vedavyasa · प्राचीन वैदिक ऋषि · पौराणिक प्राचीन काल

परंपरागत रूप से चारों वेदों के संकलनकर्ता तथा महाभारत (जिसके अंतर्गत भगवद्गीता आती है) एवं पुराणों के रचयिता माने जाते हैं — जिससे वे संपूर्ण हिंदू ग्रंथ-परंपरा में सर्वाधिक उद्धृत रचनाकारों में से एक हैं, जो दर्शन, महाकाव्य कथा, एवं भक्ति साहित्य तक विस्तृत है।

क्या आप जानते हैं?

शरशय्या से उद्भूत दिव्य वाणी

पितामह भीष्म ने यह दिव्य स्तोत्र बाणों की शय्या पर लेटे हुए मृत्युंजय भाव से उच्चारित किया था, जब वे उत्तरायण की प्रतीक्षा कर रहे थे।

युधिष्ठिर के ६ दार्शनिक प्रश्न

यह स्तोत्र धर्मराज युधिष्ठिर द्वारा पूछे गए छह मूलभूत प्रश्नों—एकमेव देव, परम गति, सर्वश्रेष्ठ स्तुति, सर्वोत्कृष्ट धर्म और मोक्ष-साधन—का सर्वांगीण समाधान है।

१०८ श्लोकों का अनुष्टुप् छन्द

स्तोत्र का मुख्य भाग यथार्थतः १०८ अनुष्टुप् श्लोकों में निबद्ध है, जो जपमाला के १०८ मणियों और नक्षत्रों के १०८ चरणों का आध्यात्मिक प्रतीक है।

भाष्यकारों की सर्वसम्मत प्रतिष्ठा

आद्य जगद्गुरु शंकराचार्य (अद्वैत) तथा पराशर भट्टर (विशिष्टाद्वैत) जैसे परस्पर विरोधी दर्शनों के आचार्यों ने भी इस स्तोत्र पर प्रामाणिक भाष्य लिखकर इसकी सार्वभौम महत्ता सिद्ध की।

एकश्लोकी विष्णु सहस्रनाम

मुद्रित संस्करणों में स्तोत्र के अन्त में एक श्लोक जुड़ा मिलता है, जिसमें शिव पार्वती से कहते हैं: 'श्रीराम राम रामेति रमे रामे मनोरमे / सहस्रनाम तत्तुल्यं रामनाम वरानने'—अर्थात् 'राम' नाम का तीन बार स्मरण सम्पूर्ण सहस्रनाम के तुल्य है। यह परम्परागत परिशिष्ट है, भीष्म के १०८ श्लोकों का अंग नहीं।

विषय के अनुसार खोजें

Vishnu की संपूर्ण स्तुति एवं पाठ

Vishnu

Vishnu के सभी पाठ देखें →

हिन्दू धर्म से और

सभी देखें